Friday, 23 November 2018

प्रियं भारतम्॥

हमारा प्यारा भारत


प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारै: ललामं निकामम्।
हिमाद्रिर्ललाटे पदे चैव सिन्धु:
प्रियं भारतं सर्वथा दर्शनीयम्॥1॥

धनानां निधानं धरायां प्रधानं
इदं भारतं देव लोकेन तुल्यम्।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत् सदा पूजनीयम्॥2॥

अनेका प्रदेशा: अनेकाश्च वेशा:
अनेकानि रूपाणि भाषा अनेका:।
परं यत्र सर्वे वयं भारतीया:
प्रियं भारतं तत् सदा रक्षणीयम्॥3॥

सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम्।
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत् सदा श्लाघनीयम्॥4॥

वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः।
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत् सदा वन्दनीयम्॥5॥

***

No comments: